📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः १५
Page 1
Download 📥
________________ श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५.१॥ ॥ ॐ ॥ त्रयोदशाध्याये संसारहेतुभूतं प्रकृतिमहदहङ्कारादितत्त्वजातरूपं क्षेत्रशब्दितं जगत्स्वरूपं उक्तम् । 'य एनं वेत्ति पुरुष' (१३.२६) इत्यादिना भगवदादिज्ञानरूपः तदत्ययोपायश्चोक्तः । तद्द्वयमत्र दर्शयति । ननु पूर्वाध्याय एव तद्वयं दर्शितमिति चेन्न । तत्र संसारहेत्वेकदेशगुणानामेव प्रवृत्तिर्दर्शिता । अत्र पुनः समग्रं संसारहेतुप्रकृत्यादिजगत्स्वरूपं प्रदर्शय तदत्ययेच्छामुत्पाद्य तत्साधनजिज्ञासुं प्रति प्रागुक्ततदत्यय (साधनं प्रपञ्चयति) साधनप्रपञ्चनात् । अत एव पूर्वानंतर्यमस्य । तदत्यसाधनप्रपञ्चनं प्रसङ्गादेव भगवन्महिमानं च दर्शयतीति ज्ञेयम् । जगत्स्वरूपं तावदाह ॥ ऊर्ध्वेत्यादिसार्धश्लोकद्वयेन । ऊर्ध्वशब्द उन्नतवाची सन् विष्णुचिदचित्प्रकृतिपरोऽत्र ज्ञेयः । विष्णोः सर्वोत्तमत्वात् परतन्त्रेषु चित्प्रकृतेः सर्वोत्तमत्वादचित्प्रकु- तेरचेतनेषूत्तमत्वात् । ऊर्ध्वाः विष्णुचिदचित्प्रकृतयो वृक्षस्य मूलानीव मूलानि यस्य सविकाराव्यक्तादिप्रागुक्त- पञ्चविंशतितत्त्वात्मकस्य जगदाख्यवृक्षस्य तमूर्ध्वमूलम् । श्व एकरूपेण न तिष्ठतीति व्युत्पत्त्या अश्ववच्चञ्चलत्वेन तिष्ठतीति वाऽश्वत्थनामकम् । सुपि स्थ इति कः, आतो लोप इटिचेत्याकारलोपः । तस्य तकारः । जगदाख्यं चिदचिदात्मकं वृक्षम् । तत्रायं विवेकः । प्रसिद्धवृक्षस्य धरादेवीवत् विष्णुर्जगद्वृक्षस्य पृथङ्मलम् । अचित्प्रकृतिः सत्त्वादित्रिगुणात्मिका वृक्षस्य मृद्वत्परिणामितया मूलम् । त्रिमूलो हि जगद्वृक्षो जडप्रकृतिरपि त्रिगुणात्मकत्वान्मूलत्रयात्मना त्रिभिर्गुणैः परिणमते । चित्प्रकृतिस्तु तदधिष्ठातृत्वान्मूल- भागवज्ज्ञातव्येति । अधः शब्दो नीचवाची । विष्ण्वादिप्रागुक्तत- रितयापेक्षयाऽधः नीचाः पञ्चभूतसहिताः महदहङ्कारबुद्धयोऽष्टौ १